Śrīkoṣa
Chapter 5

Verse 5.2

श्रीभगवानुवाच
संन्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥