Brahma Sūtras (Adhyāya 4)
By Śrī Bādarāyaṇa Vyāsa
Composed in Dvāpara Yuga
4 chapters • 33 verses
Filter Content
Display Mode
Pada 1
Adhikarana 4.1.1 आवृत्त्यधिकरणम्
आवृत्तिरसकृदुपदेशात् ॥4.1.1॥
लिङ्गाच्च ॥4.1.2॥
Adhikarana 4.1.2 आत्मत्वोपासनाधिकरणम्
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥4.1.3॥
Adhikarana 4.1.3 प्रतीकाधिकरणम्
नप्रतीकेन हि सः ॥4.1.4॥
ब्रह्मदृष्टिरुत्कर्षात् ॥4.1.5॥
Adhikarana 4.1.4 आदित्यादिमत्यधिकरणम्
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥4.1.6॥
Adhikarana 4.1.5 आसीनाधिकरणम्
आसीनः संभवात् ॥4.1.7॥
ध्यानाच्च ॥4.1.8॥
अचलत्वं चापेक्ष्य ॥4.1.9॥
स्मरन्ति च ॥4.1.10॥
यत्रैकाग्रता तत्राविशेषात् ॥4.1.11॥
Adhikarana 4.1.6 आप्रयाणाधिकरणम्
आप्रयाणात्तत्रापि हि दृष्टम् ॥4.1.12॥
Adhikarana 4.1.7 तदधिकमाधिकरणम्
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥4.1.13॥
Adhikarana 4.1.8 इतराधिकरणम्
इतरस्याप्येवमसंश्लेषः पाते तु ॥4.1.14॥
Adhikarana 4.1.9 अनारब्धकार्याधिकरणम्
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥4.1.15॥
Adhikarana 4.1.10 अग्निहोत्राद्यधिकरणम्
अग्निहेत्रादि तु तत्त्कार्यायैव तद्दर्शनात् ॥4.1.16॥
अतोऽन्यापि ह्येकेषामुभयोः ॥4.1.17॥
यदेव विद्यतेति हि ॥4.1.18॥
Adhikarana 4.1.11 इतरक्षपणाधिकरणम्
भोगेन त्वितरे क्षपयित्वाथ संपद्यते ॥4.1.19॥
Pada 2
Adhikarana 4.2.1 वागधिकरणम्
वाङ् मनसि दर्शनाच्छब्दाच्च ॥4.2.1॥
अत एव सर्वाण्यनु ॥4.2.2॥
Adhikarana 4.2.2 मनोधिकरणम्
तन्मनः प्राण उत्तरात् ॥4.2.3॥
Adhikarana 4.2.3 अध्यक्षाधिकरणम्
सोऽध्यक्षे तदुपगमादिभ्यः ॥4.2.4॥
Adhikarana 4.2.4 भूताधिकरणम्
भूतेषु तच्छ्रुतेः ॥4.2.5॥
नैकस्मिन् दर्शयतो हि ॥4.2.6॥
Adhikarana 4.2.5 आसृत्युपक्रमाधिकरणम्
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥4.2.7॥
तदापीतेः संसारव्यपदेशात् ॥4.2.8॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥4.2.9॥
नोपमर्देनातः ॥4.2.10॥
अस्यैव चोपपत्तेरूष्मा ॥4.2.11॥
प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् ॥4.2.12॥
स्मर्यते च ॥4.2.13॥
Adhikarana 4.2.6 परसंपत्त्यधिकरणम्
तानि परे तथा ह्याह ॥4.2.14॥
Adhikarana 4.2.7 अविभागधिकरणम्
अविभागो वचनात् ॥4.2.15॥
Adhikarana 4.2.8 तदोकोधिकरणम्
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥4.2.16॥
Adhikarana 4.2.9 रश्म्यनुसाराधिकरणम्
रश्म्यनुसारी ॥4.2.17॥
Adhikarana 4.2.10 निशाधिकरणम्
निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वाद् दर्शयति च ॥4.2.18॥
Adhikarana 4.2.11 दक्षिणायनाधिकरणम्
अतश्चायनेऽपि दक्षिणे ॥4.2.19॥
योगिनः प्रति स्मर्येते स्मार्ते चैते ॥4.2.20॥
Pada 3
Adhikarana 4.3.1 अर्चिराद्यधिकरणम्
अर्चिरादिना तत्त्प्रथितेः ॥4.3.1॥
Adhikarana 4.3.2 वाय्वधिकरणम्
वायुमब्दादविशेषविशेषाभ्याम् ॥4.3.2॥
Adhikarana 4.3.3 वरुणाधिकरणम्
तटुतोऽधिवरुणः संहन्धात् ॥4.3.3॥
Adhikarana 4.3.4 आतिवाहिकाधिकरणम्
आतिवाहिकास्तल्लिङ्गात् ॥4.3.4॥
वैद्युतेनैव ततस्तच्छ्रुतेः ॥4.3.5॥
Adhikarana 4.3.5 कार्याधिकरणम्
कार्यं बादरिरस्य गत्युपपत्तेः ॥4.3.6॥
विशेषितत्वाच्च ॥4.3.7॥
सामीप्यात्तु तद्व्यपदेशः ॥4.3.8॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥4.3.9॥
स्मृतेश्च ॥4.3.10॥
परं जैमिनिर्मुख्यत्वात् ॥4.3.11॥
दर्शनाच्च ॥4.3.12॥
न च कार्ये प्तत्यभिसंधिः ॥4.3.13॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ॥4.3.14॥
विशेषं च दर्शयति ॥4.3.15॥
Pada 4
Adhikarana 4.4.1 संपद्याविर्भावाधिकरणम्
संपद्याविर्भावः स्वेनशब्दात् ॥4.4.1॥
मुक्तः प्रतिज्ञानात् ॥4.4.2॥
आत्मा प्रकरणात् ॥4.4.3॥
Adhikarana 4.4.2 अविभागेनदृष्टत्वाधिकरणम्
अविभागेन दृष्टत्वात् ॥4.4.4॥
Adhikarana 4.4.3 ब्राह्माधिकरणम्
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥4.4.5॥
चितितन्मात्रेण तदात्मक्त्वदित्यौडुलोमिः ॥4.4.6॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥4.4.7॥
Adhikarana 4.4.4 संकल्पाधिकरणम्
संकल्पादेव तच्छ्रुतेः ॥4.4.8॥
अत एव चानन्याधिपतिः ॥4.4.9॥
Adhikarana 4.4.5 अभावाधिकरणम्
अभावं बादरिराह ह्येवम् ॥4.4.10॥
भावं जैमिनिर्विकल्पामननात् ॥4.4.11॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥4.4.12॥
तन्वभावे संध्यवदुपपत्तेः ॥4.4.13॥
भावे जाग्रद्वत् ॥4.4.14॥
प्रदीपवदावेशस्तथाहि दर्शयति ॥4.4.15॥
स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं हि ॥4.4.16॥
Adhikarana 4.4.6 जगद्व्यापारवर्जाधिकरणम्
जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च ॥4.4.17॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥4.4.18॥
विकारावर्ति च , तथाहि स्थितिमाह ॥4.4.19॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥4.4.20॥
भोगमात्रसाम्यलिङ्गाच्च ॥4.4.21॥
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥4.4.22॥