Chapter 1
Verse 1.1
श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः
श्रीमते रघुनन्दनपरब्रह्मणे नमः
रघुवंशदुग्धजलधौ जातं सन्तानमाश्रये कमपि ।
अतितुङ्गादपि यस्मात् विनतैरग्यं फलं करग्राह्यम् ॥
वकुळभूषणपादसरोरुहप्रवणमानससंयमिशेखरम्।
कलयतो निगमान्तगुरोः पदे कृतधिये करवै गुरवे नमः ॥
लक्ष्मीकुमारतातार्यवंश्यवेङ्कटसद्गुरोः ।
तनयः कृष्णतातार्यः तनुते णत्वचन्द्रिकाम् ॥
णत्वे परोक्तयुक्तीनां दूषणं सम्यगीरितम् । तुष्टये वावदूकानां कक्ष्याष्षष्टिं प्रदर्शये ॥