Chapter 1
Verse 1.10
न च णत्वविधेरपि उत्तरपदनिष्ठपदत्वप्रयुक्तत्वं संपद्यते। तथाहि अत्र उत्तरपद- निष्ठपदत्वप्रयुक्तत्वन्नाम न तावत् तादृशपदत्वजन्यत्वादिरूपम्, असंभवात् । अत एव न तद्व्यापकत्वरूपम् । नापि तद्व्याप्यत्वरूपम्, वाग्वक्तीत्यादौ व्यभिचारात् । किन्तु तद्घटितधर्मा वच्छिन्नोद्देश्यताकविधिविषयत्वमेव तत्, तादृशे एव वैयाकरणानाम् प्रयुक्तत्वव्यवहारात्, अन्यस्य दुर्वचत्वाच्च। भवति च कुत्वादिविध्युद्देश्यतावच्छेदककोटौ पदत्वस्य घटकतया तेषां तत्प्रयुक्तत्वोपपत्तिः। तथाच णत्वविध्युद्देश्यतावच्छेदककोटौ निमित्तानधिकरण- निमित्तिमन्निष्ठं पदत्वम् घटकमित्यविवादम्। तच्च रामनामाद्यन्तर्गतोत्तरपदनिष्ठं पदत्वमेवेति णत्वविधेरुक्तविधतत्प्रयुक्तत्वसंपत्त्या तत्र वार्तिकप्रवृत्तिः निर्बाधैवेति वाच्यम् ॥ ५ ॥