Śrīkoṣa
Chapter 1

Verse 1.32

वस्तुतस्तु तादृशसमुदायत्वे रेफादिवृत्तित्वस्य सूत्रलभ्यत्वेऽपि प्रयोजनविरहेणा- विवक्षिततया इह नकारवृत्तित्वमनुपादेयमेव । रेफाद्यवृत्तिपदत्वासमानाधिकरणधर्मवत्त्वमात्रं नकारे निवेश्यम्। मातृभोगीणादौ प्रत्ययमात्रवृत्तिसमुदायत्वं नकारवृत्तितद्व्यक्तित्वमेव वा आदाय तदुपपत्तिः । नचैवमपि रामनारीत्यत्र णत्वापत्तिः । नारीशब्दवृत्तिपदत्वस्य रेफवृत्तितया रेफाद्यवृत्तिपदत्वासमानाधिकरणधर्मवत्त्वस्य नकारे सत्त्वादिति वाच्यम्। यादृशरेफाद्युत्तरत्वं नकारस्य तादृशरेफाद्यवृत्तिपदत्वासमानाधिकरणधर्मवत्त्वस्य विवक्षिततया दोषविरहात् । स्वोत्तराडादिभिन्नानुत्तरत्वस्वोत्तरत्वस्वावृत्तिपदत्वासमानाधिकरणधर्मवत्त्वैतत्त्रि- तयसंबन्धेन रेफादिविशिष्टस्य नस्य णत्वं स्यादिति तु निष्कर्षः । स्वोत्तराडादिभिन्नानुत्तरत्वं च स्वोत्तराडादिभिन्नोत्तरत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वरूपम् । स्वावृत्तिपदत्वासमानाधिकरणधर्मवत्त्वं च स्वविशिष्टधर्मवत्त्वरूपम्। धर्मे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसंबन्धेन । स्वनिष्ठावच्छेदकता च स्वविशिष्ट- पदत्वसमानाधिकरणत्वसंबन्धेन । पदत्वे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताक- भेदवत्त्वसंबन्धेन । स्वनिष्ठावच्छेदकता चाधेयतासंबन्धेन । अथवा निमित्तिमत्पदाघटितत्वमात्रं ग्राह्यम् । तच्च नकारवृत्तिपदत्वनिष्ठन्यूनवृत्तिता-निरूपकभिन्नसमुदायत्वं रेफादिवृत्तितादृशसमुदायत्वाश्रयत्वं “समानपदे” इति सप्तम्यन्तार्थः । तन्निष्ठन्यूनवृत्तितानिरूपकत्वं च स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसंबन्धेन तद्विशिष्टत्वम्। गीर्नमतीत्यादिषु नमत्यादिगतसमुदायत्वस्य पदत्वनिष्ठन्यूनवृत्तितानिरूपक- भिन्नतया तद्वारणाय समुदायत्वे रेफादिवृत्तित्वनिवेशः । रामनामादिगतसमुदायत्ववारणाय भिन्नान्तनिवेशः। मातृभोगीणादौ तादृशसमुदायत्वस्य भोगपदवृत्तिपदत्वनिष्ठ न्यूनवृत्तितानिरूपकतया तत्संग्रहाय नकारवृत्तीति । रामनारीत्यादौ णत्ववारणप्रकार, प्रागुक्तदिशा ज्ञेयः । अनुगमे स्ववृत्तिसमुदायत्ववत्त्वं तृतीयसंबन्धः । स्ववृत्तित्वं स्वरूपसंबन्धेन। समुदायत्ववत्त्वं च स्वरूप-आधेयत्वोभयसंबन्धेन। आधेयता च स्वनिष्ठावच्छेदकताक- प्रतियोगिताकभेदवत्त्वसंबन्धेन । अवच्छेदकता च स्ववृत्तिपदत्वविशिष्टत्वसंबन्धेन । वृत्तिः . स्वरूपसंबन्धेन । पदत्ववैशिष्ट्यं च स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसंबन्धेन ।