Śrīkoṣa
Chapter 1

Verse 1.33

यद्वा समाने एव पदे न तु भिन्ने इति रीत्या निमित्तानधिकरणनिमित्तिमत्पदावृत्तित्वं सप्तम्यन्तार्थः। रेफाद्यवृत्तिपदत्वानाश्रयत्वमिति तु निष्कर्षः । अनुगमे च स्वनिष्ठा- वच्छेदकताकप्रतियोगिताकभेदवत्त्वं तृतीयसंबन्धः । स्वनिष्ठावच्छेदकता च स्वविशिष्ट- पदत्वाश्रयत्वसंबन्धावच्छिन्ना । पदत्वे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिता- कभेदवत्त्वसंबधेन। स्वनिष्ठावच्छेदकता च आधेयतासंबन्धेनेत्यलम्।