Chapter 1
Verse 1.34
यदपि निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वस्य सामानपद्यरूपत्वेऽपि उत्तरपदत्वे चेत्यादिवार्तिकेनायनशब्दस्य प्रत्ययलक्षणनिषेधात् पदत्वविरहेण सामानपद्योपपत्त्या णत्वोपपत्तिरिति । तदप्ययुक्तम्, उक्तवार्तिकेन णत्वविधौ प्रत्ययलक्षणानिषेधात्, उत्तरपदनिष्ठं यत् पदत्वं तत्प्रयुक्तापदादिविधावेव हि अनेन प्रत्ययलक्षणं निषिद्धयते, णत्वप्रवृत्तिस्थले च उत्तरपदस्य न पदत्वं संभवति । उत्तरपदस्य पदत्वे सामानपद्यविघटनेन णत्वप्रवृत्त्यसभवात्। अतो दूरत एव णत्वस्य उत्तरपदनिष्ठपदत्वप्रयुक्तत्वमिति कथमुक्तवार्तिकस्य णत्वविधौ प्रवृत्तिः । वार्तिके हि उत्तरशब्दः उत्तरपदपरः, उत्तरस्य पदत्वमिति व्युत्पत्त्या तन्निष्ठपदत्वलाभः। सतिसप्तम्या प्रयुक्तत्वबोधः, पयः पाने सति पिपासा शाम्यतीत्यादिषु तथा दर्शनात् ।