Chapter 1
Verse 1.35
अथ निमित्तिमत्पदत्वस्य णत्वप्रयोजकत्वं निर्विवादं तस्य णत्वविध्युद्देश्यता वच्छेदकघटकत्वात्। उद्देश्यतावच्छेदकघटकत्वस्यैव ईदृशस्थले प्रयोजकत्वरूपतायाः वक्ष्यमाणत्वात् । तथाच निमित्तानधिकरणनिमित्तिमत्पदत्व(?)त्वेन रामनामाद्यन्तर्गतोत्तरपदवृत्तिपदत्वस्यापि प्रयोजकत्वाऽक्षतेः णत्वस्य उत्तरपदवृत्तिपदत्वप्रयुक्तत्वमव्याहतमिति तत्त्रोक्तवार्तिकप्रवृत्तिर्निराबाधैव । न च उद्देश्यतावच्छेदकीभूताभावप्रतियोगिकोटि- निविष्टत्वेन तत्र न प्रयोजकत्वव्यवहारः । मणित्वादौ कारणतावच्छेदकघटकत्वेऽपि दाहादिप्रयोजकत्वाव्यवहारवत् । तथा च तद्व्यावृत्तमेव प्रयोजकत्वं निर्वाच्यम् । तन्निरूपकत्वरूपं प्रयुक्तत्वमेव सतिसप्तमीबोध्यमिति कथमुक्तवार्तिकस्य तत्र प्रवृत्तिरिति वाच्यम्। उद्देश्यतावच्छेदकीभूताभावप्रतियोगिकोटिनिविष्टेऽपि प्रयोजकत्वव्यवहारसत्त्वेन णत्वस्य उत्तरपदवृत्तिपदत्वप्रयुक्तत्वाक्षतेः नकारस्य निमित्तानधिकरणनिमित्तिमपत्पदाघटितवृत्तित्वे णत्वमितिवत् स्वावच्छिन्नाघटितवृत्तित्वसंबन्धेन निमित्तानधिकरणनिमित्तिमत्पदत्ववत्त्वे णत्वमित्यपि व्यवहारो दृश्यत एव । पूर्ववृत्तौ दण्डत्ववत्त्वे घटोत्पत्तिरितिवत् पूर्ववृत्त्यभावे स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन मणित्ववत्त्वे दाहोत्पत्तिरित्यपि व्यवहारोऽस्त्येव । तथा च णत्वविधौ वार्तिकं प्रवर्तत एवेति चेत् ।