Śrīkoṣa
Chapter 1

Verse 1.36

उच्यते वार्तिके सतिसप्तम्याः प्रयोजकत्वमात्रार्थकत्वे माषकुम्भवापेनेत्यत्र पदव्यवायेपीति णत्वनिषेधानुपपत्तिप्रसङ्गः । तथाहि पदव्यवायेपीत्यनेन णत्वाभावविधानात् कुम्भशब्दवृत्तिपदत्वस्य निमित्त (त्तोत्तर) पदोत्तरनकारोद्देशेन उद्देश्यतावच्छेदकघटकतया णत्वाभावस्य उत्तरपदवृत्तिपदत्वप्रयुक्तत्वमक्षतमिति । तद्विषये उक्तवार्तिकेन प्रत्ययलक्षणनिषेधे कुम्भशब्दादेः पदत्वासंभवात् पदव्यवधानासंभवेन णत्वनिषेधो न प्रवर्तेत । अतो नेह सप्तम्याः प्रयुक्तत्वमात्रमर्थः किन्तु सामानाधिकरण्यमपि, गुणकर्मान्यत्वे सति सत्त्वादित्यत्र सामानाधिकरण्य- रूप वैशिष्ट्यार्थकतायास्तान्त्रिकैरुक्तत्वात् । पयःपाने सति पिपासा शाम्यतीत्यादौ सामानाधिकरण्यप्रयुक्तत्वोभयभानस्यैवानुभविकत्वाच्च । इत्थं च उत्तरपदनिष्ठं यत्पदत्वं तत्सामानाधिकरण्य-तत्प्रयुक्तत्वोभयवत्यपदादिविधौ प्रत्ययलक्षणन्नेत्यर्थात् णत्वविधौ उक्तवार्तिकप्रवृत्तिः दुर्घटा । णत्वस्य उदासीनोत्तरपदनिष्ठपदत्वप्रयुक्तत्वेऽपि तत्सामानाधिकरण्यविरहात्। अत्र तादृशपदत्वसामानाधिकरण्यमानादरणे माषकुम्भवापेनेत्यादौ उक्तदोषस्यैव प्रसङ्गः । समस्तसमुदायगतपदत्वसामानाधिकरण्यस्य णत्वनिषेधे सत्त्वात् तादृशपदत्वस्य उत्तरपदवृत्तित्वाच्च । तद्धि समुदायपर्याप्तमपि आश्रयतया उत्तरपदेऽधि वर्तते अतः प्रयुक्तत्वनिवेशः । तथा सति दर्शितसमुदायगतपदत्वस्य णत्वनिषेधोद्देश्यता- वच्छेदकघटकत्वविरहेण तत्प्रयुक्तत्वासंभवान्न दोषः ।