Chapter 1
Verse 1.37
स्वप्रयुक्तत्वस्वसामानाधिकरण्योभयसंबन्धेन तादृशपदत्वविशिष्टापदादिविधाविति तु निष्कर्षः । तेन दर्शितस्थले समुदायगतपदत्वमादाय सामानाधिकरण्यं कुम्भशब्दगतं तदादाय प्रयुक्तत्वं चोपपाद्य अनुपपत्त्यापादनं निरस्तम्। यद्यपि परमवाचा परमलिहेत्यादौ वस्तुतः कुत्वडत्वादेरप्रवृत्त्या तस्योत्तरपदत्वविशिष्टत्वन्नोपपद्यते। तथापि तादृशपदत्वविशिष्टत्वसंभावनाविषयत्वमेव ग्राह्यमिति न दोषः । संभावना च "परमवाचेत्यादौ उत्तरपदस्य पदत्वमाश्रित्य कुत्वे कृते तदुत्तरपदत्वविशिष्टं भवेदि" त्याकारको ज्ञानविशेषः । स च मुनिनिष्ठ एव ग्राह्यः। तेन पुरुषान्तरीयज्ञानस्यातिप्रसञ्जकत्वेऽपि न क्षतिः । तत्सिद्धं णत्वविधावुक्तवार्तिकं न प्रवर्तत इति ।