Śrīkoṣa
Chapter 1

Verse 1.38

ननु निमित्तानधिकरणेत्यादेः नकारवृत्तिपदत्वनिष्ठन्यूनवृत्तितानिरूपकभिन्नसमुदाय- त्वमर्थः। ततश्चाट्कुप्वाङित्यादेः तादृशसमुदायत्वाश्रयनकारोद्देशेन णत्वविधायकतया नकारवृत्तिपदत्वस्य उद्देश्यतावच्छेदकघटकतया णत्वप्रयोजकत्वं अविवादम् । तच्च"नारायण" इति समस्तसमुदायगतपदत्वरूपम्। ततश्च णत्वे तत्प्रयुक्तत्वतत्सामानाधिकरण्ययोस्सत्त्वात् तत्रोक्तवार्तिकप्रवृत्तेरविघात इति चेन्न । निमित्तानधिकरण(निमित्तिमत्) पदावृत्तित्वस्य रेफाद्यवृत्तिपदत्वानाश्रयत्वपर्यवसितस्यैव सप्तम्यन्तार्थस्य लाघवेनादरणीयत्वात् दर्शित- समुदायगतपदत्वस्य रेफाद्यवृत्तित्वविरहेण णत्वविधेस्तथात्वासंभवात् । किञ्च उत्तरपदत्वा- वच्छिन्नपर्याप्तिकपदत्वमेवावश्यं निवेश्यम् । अन्यथा परमगोमानित्यादौ संयोगान्तलोपानुपपत्तेः तत्र समस्तसमुदायगतपदत्वस्यापि प्रागुक्तरीत्या उत्तरपदवृत्तित्वानपायेन संयोगान्तलोपे तत्प्रयुक्तत्वसामानाधिकरण्ययोः सत्त्वात् । उत्तरपदत्वावच्छिन्नपर्याप्तिकत्वनिवेशे च न दोषः । समुदायगतपदत्वमाश्रित्यैव संयोगान्तलोपप्रवृत्तेः । तथा च कथमुक्तवार्तिकस्य णत्वविधौ प्रवृत्तिशङ्कापि । यद्यप्येवं सति माषकुम्भावापेनेत्यत्र समुदायगतपदत्वमादायान पपतेरप्रसरात् प्रयुक्तत्वनिवेशस्य प्रागुपदर्शितं प्रयोजनं न संभवति । तथापि परमगोमानित्यत्र उत्तरपदमात्रस्य प्रत्ययलक्षणेन पदत्वमाश्रित्य सामानाधिकरण्योपपादनसंभवात् संयोगा- न्तलोपानुपपत्तिवारणाय प्रयुक्तत्वनिवेशः । तत्र समुदायगतपदत्वमाश्रित्यैव लोपप्रवृत्त्या न दोषः ।