Śrīkoṣa
Chapter 1

Verse 1.40

अथैवं रीत्या वार्तिकार्थवर्णने परमविदुषेत्यादौ षत्वानुपपत्तिः । अपदान्तस्य मूर्धन्य इत्यनुवृत्तिसहितेन इण्कोरित्यनेन विधीयमानस्य षत्वस्य उत्तरपदत्वावच्छिन्न- पर्याप्तिकपदत्वसामानाधिकरण्यासंभवेन तत्र उक्तवार्तिकाप्रवृत्तौ प्रत्ययलक्षणसत्त्वेन तस्यापदान्तत्वासंभवात् । अत इत्थं वक्तव्यम् उत्तरपदशब्दः समासचरमावयवपरः, वैय्याकरणैः तस्य तत्र रूढत्वाङ्गीकारात् सतिसप्तम्याश्च सामानाधिकरण्यमर्थः । तच्चाश्रयत्वो- द्देश्यत्वोभयघटितम् । तथाच उत्तरपदत्वाश्रयोद्देश्यको योऽयमपदादिविधिः तद्विषये प्रत्ययलक्षणं नेति वार्तिकार्थः । उत्तरपदत्वस्य समुदायपर्याप्तत्वेपि तद्भटकवर्णेषु स्वरूपसंबन्धेन तदाश्रयत्वमक्षतमिति उत्तरपदघटकवर्णोद्देश्यकविधिसंग्रहः । ततश्च परमविदुषेत्यादौ षत्वस्य तादृशत्वानपायात् तत्र प्रत्ययलक्षणनिषेधोपपत्तिः माषकुम्भवापेनेत्यादौ णत्वनिषेधस्य चातथात्वान्न तत्र प्रत्ययलक्षणनिषेधः । इत्थं च णत्वविधेरपि तादृशतया तत्र प्रत्ययलक्षणनिषेधोपपत्तिरिति चेन्न ।