Chapter 1
Verse 1.41
यत एवं सति परमयुवयोगिनेत्यादौ पदव्यवाये-पीति निषेधानुपपत्तिः तस्य तादृशतया युवशब्दस्य प्रत्ययलक्षणनिषेधात् । अतः अपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमेव समाश्रयणीयम् । तथा च णत्वनिषेधस्यातथात्वान्न दोषः । इण्कोरिति षत्वोद्देश्यतावच्छेदककोटौ पदान्तत्वस्य घटकतया तस्यापि पदान्तत्वप्रयुक्तत्वात् परमविदुषेत्यादौ नानुपपत्तिः । इत्थं च णत्वविधेः पदान्तत्वाप्रयुक्ततया न तत्र वार्तिकप्रवृत्तिरिति । नचयादृशोत्तरपदघटकवर्णाद्दिश्यकः विधिस्तस्यैवानेन प्रत्ययलक्षणनिषेधाङ्गीकारात् नोक्तानुपपत्तिः । युवशब्दस्य कार्यभाक्त्व विरहेण प्रत्ययलक्षणसत्त्वात् । तथाचापदादिविधिशब्दस्य दर्शितार्थकताया अनाश्रयणीयतया | णत्वविधौ वार्तिकप्रवृत्तेरविघात इति वाच्यम् । पदे व्यवाय इति सप्तमीसमासपक्षे |परमयुवयोगिनेत्यादौ णत्वनिषेधानुपपत्तिपरिहारायापदादिविधिशब्दस्य उक्तार्थकताय आवश्यकत्वात् ।