Śrīkoṣa
Chapter 1

Verse 1.11

तद्घटितधर्मावच्छिन्नोद्देश्यताकविधिविषयत्वमात्रस्य तत्प्रयुक्तत्वरूपताविरहेण णत्वविधौ वार्तिकप्रवृत्त्यसंभवात्। तथाहि यद्यपि लोके कारणतावच्छेदकघटक इव व्याकरणे उद्देश्यतावच्छेदकघटके प्रयोजकत्वव्यवहारोऽस्ति । तथापि मणित्वादी दाहादिकारणतावच्छेदकघटकत्वेऽपि अभावप्रतियोगिकोटिनिविष्टतयैव तद्भटकतया यथा लोके न प्रयोजकत्वव्यवहारः तथा व्याकरणेऽपि पदत्वस्य णत्वविध्युद्देश्यतावच्छेदकघटकत्वेऽपि अभावप्रतियोगिकोटिनिविष्टतयैव तद्घटकतया न तत्र प्रयोजकत्वव्यवहारः । तथाच प्रकृते तद्घटितधर्मावच्छिन्नप्रतियोगिताकाभावघटितो यः तद्घटितो धर्मः तदवच्छिन्नोद्देश्यता- कविधिविषयत्वमेव तत्प्रयुक्तत्वमिति णत्वविधेः पदत्वप्रयुक्तत्वं दुर्लभमेवेति । किञ्च सतिसप्तम्या सामानाधिकरण्यसहितमेव प्रयुक्तत्वं बोध्यते, पयः पाने सति पिपासा शाम्यतीत्यादिषु तथाऽनुभवात् । तथाच उत्तरपदनिष्ठपदत्वप्रयुक्तः तत्समानाधिकरणश्च योऽयमपदादिविधिः तत्रैव उक्तवार्तिकेन प्रत्ययलक्षणनिषेध इति णत्वविधौ तदप्रवृत्तिरेवेति ॥ ६ ॥