Śrīkoṣa
Chapter 1

Verse 1.42

तथाहि आर्द्रगोमयेण शुष्कगोमयेणेत्यादौ पदव्यवायेपीति निषेधवारणाय | "अतद्धित इति वक्तव्यमित्युक्तम् वार्तिककृता । तत्प्रत्याचिख्यासया च पदे व्यवाय |
इति सप्तमीसमासपक्षः समाश्रितः भाष्यकृता । तत्र व्यवधानं प्रत्यासत्त्या पदकृतमेव ग्राह्यम्। तेन चतुर्बह्वंगेणेत्यत्र पदपरकबहुच्प्रत्ययेन व्यवधानेऽपि न दोषः । पदपरकं यत्पदं तेन व्यवधान इति तु निष्कर्षः । तथा च आर्द्रगोमयेण शुष्कगोमयेणेत्यादौ गोपदस्य पदपरकत्वविरहान्न दोषः । इत्थं च परमयुवयोगिनेत्यत्र योगिन्नित्यस्य कार्यभागुत्तरपदरूपस्य प्रत्ययलक्षणनिषेधे युवशब्दस्य पदपरकत्वासंभवात् णत्वनिषेधानुपपत्तिः । अतः पदान्तत्वप्रयुक्तविधिपरत्वमपदादिविधिशब्दस्याकामेनापि स्वीकार्यमिति । एतेन उत्तरपदस्य पदसंज्ञायां प्रत्ययलक्षणं न, पदादिविधौ तु उक्तनिषेधो नेति वार्तिकार्थः । कार्यभाज उत्तरपदस्यैवानेन प्रत्ययलक्षणनिषेधाङ्गीकारात् न माषकुम्भवापेनेत्यादौ णत्वनिषेधानुपपत्तिः । तथाच णत्वविधावपि वार्तिकप्रवृत्तिरव्याहतैवेत्यपास्तम् । परमयुवयोगिनेत्यादौ पदे व्यवाय इति सप्तमीसमासपक्षे णत्वनिषेधानुपपत्तेर्दुर्वारत्वात्, प्रसज्यप्रतिषेधाश्रयणे वाक्यभेदाद्यापत्तेश्च । अतः पर्युदासमाश्रित्यापदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमेवाङ्गीकरणीयमिति । न च माषकुम्भवापेनेत्यादौ गतिकारकोपपदानामिति परिभाषया सुबुत्पत्तेः प्रागेव समासात् सप्तमीसमासपक्षे तत्रानुपपत्तिवारणाय पदशब्दस्य पदत्वयोग्यपरत्वमावश्यकम् । इत्थं च प्रागुक्तस्थले प्रत्ययलक्षणनिषेधेपि क्षतिविरह इति वाच्यम् । उक्तपरिभाषाया अनित्यत्वेन दर्शितस्थले सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारेण पदशब्दस्य पदत्वयोग्यलाक्षणिकतायां मानाभावात्। अस्या अनित्यत्वं च उपपदमतिङिति सूत्रे कैय्यटे स्पष्टम् । तत्र हि "कर्तृकरणे कृता बहुलमि"ति बहुलग्रहणात् गतिकारकोपपदानामिति परिभाषाया अनित्यत्वं ज्ञाप्यते । तेन धनक्रीतादिसिद्धिरित्युक्तम् ।