Chapter 1
Verse 1.43
यद्यपि उक्तपरिभाषा नित्यैव । धनक्रीतादिस्त्वजादित्वाङ्गीकारेण साधनीय इत्येव भाष्यकाराशयः। अत एव दधिसेचावित्यादौ उपपदसमासे सात्पदाद्येोरिति निषेधोपपत्तये भाष्ये पदादादिरिति पञ्चमीसमासाश्रयणमुपपद्यते । अन्यथा सुबुत्पत्त्यनन्तरमेव तत्रापि समाससंभवात् तदसङ्गतिस्स्पष्टैव । तथापि वार्तिककृतः तदनित्यत्वमेव सम्मतम्। अन्यथा अपदादिविधावित्यभिधानानुपपत्तेः । दधिसेचावित्यादौ षत्वस्य उक्तरीत्यैव उप- पादनीयत्वात्। ततश्च तत्पक्षे एवापदादिविधावित्यस्य सत्त्वात् तस्य उक्तरीत्या पदान्तत्व- प्रयुक्तविधिपरत्वमावश्यकमेवेति ।