Chapter 1
Verse 1.44
अथापदादिविधिशब्दस्य कथं पदान्तत्वप्रयुक्तविधिपरत्वमिति चेन्न नञ- वयुक्तपरिभाषाबलादिति ब्रूमः । तथा हि अपदादिविधावित्यत्र नञः न भिन्नमात्र- मर्थः। अपि तु भिन्नसदृशं नञिवयुक्तं अन्यसदृशाधिकरणे तथाह्यर्थगतिरिति न्यायात् । सादृश्यं चेह स्वघटितपदघटकवर्णनिरूपितपूर्वत्वतादृशवर्णनिरूपितोत्तरत्वोभय- वदवृत्तिधर्मप्रयुक्तविधित्वेन । स च धर्मः पदादित्वं पदान्तत्वं चेति पदान्तत्वप्रयुक्त- विधिरेव उक्तरूपेणापदादिविधिसदृश इति स एवापदादिविधिशब्दार्थः । न च उक्तरूपेणैव
सादृश्यमादरणीयमित्यत्र नियामकाभावः पदत्वप्रयुक्तविधित्वेनापि सादृश्यसंभवादिति वाच्यम्। व्याप्यधर्मप्रयुक्तसादृश्यसंभवे व्यापकधर्मप्रयुक्तस्य तस्यानाश्रयणीयत्वात् । अन्यथा सर्वत्र केनचिदाकारेण सादृश्यस्यावर्जनीयतया तस्य नञर्थतावच्छेदकता- स्वीकारस्याव्यावर्तकतापत्त्या दर्शितन्यायोपपादनपरिभाषाऽसंगतिप्रसंगात् । अत एव वेस्कन्देरनिष्ठायामिति षत्वविकल्पः कुत्वेन सादृश्यात् तृच्येव न तिङीत्युपपद्यते । अन्यथाहि प्रत्ययत्वेन सादृश्यात् तिङ्यपि तदापत्तिः । तथा च व्याकरणे परिभाषासंस्कृतवाक्यार्थस्यैव समाश्रयणीयतया तथात्वसंप्रतिपन्नप्रयोजनान्तरविरहेऽपि अपदादिविधिशब्दस्य उक्त- परिभाषाबलेन पदान्तत्वप्रयुक्तविधिपरत्वमेव समाश्रयणीयम् । प्रकृते तु माषकुम्भवापे- नेत्यत्न णत्वनिषेधोपपत्तिरूपप्रयोजनस्याप्यस्माभिरुपपादिततया अपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वं सुदृढमेवेति ।