Śrīkoṣa
Chapter 1

Verse 1.45

अथ किमिदं पदान्तत्वप्रयुक्तत्वम्। न तावज्जन्यजन्यतावच्छेदकादावनुभूयमान- स्वरूपसंबन्धविशेषः । कुत्वादेः पदान्तत्वजन्यत्वतदवच्छेदकत्वाद्यसंभवात्। नापि पदान्तत्व- व्यापकत्वम्, राम इत्यादौ विसर्जनीये पदान्तत्वाश्रये कुत्वविरहात्। नापि तद्व्याप्यत्वम्, वक्तीत्यादौ कुत्वाश्रये पदान्तत्वविरहात् इति चेत् उच्यते । पदान्तत्वघटितधर्मा- वच्छिन्नोद्देश्यताकशाब्दबोधविधेयत्वतात्पर्यविषयत्वमेव तत् । उद्देश्यतावच्छेदकघटक वैय्याकरणानां प्रयोजकत्वव्यवहारात् अन्यस्य दुर्वचत्वाच्च । चोः कुरित्यादिषु झल्परकत्व- पदान्तत्वान्यतरवच्चवर्गोद्देशेन कुत्वविधानात् तस्य पदान्तत्वप्रयुक्तत्वोपपत्तिः । यद्यपि चोः कुरित्यादौ षष्ठी स्थाने योगेति परिभाषायाः स्थाने इत्यध्याहार्यम् । स्थानं च प्रसङ्गः चोः कुरित्यादि शास्त्रन्नारभ्येत तदा वागित्यादौ वकार आकारोच्चारणाव्यवहितोत्तरक्षण चवर्गोच्चारणाधिकरणं स्यादित्याकारकः पाणिन्यादिसमवेतो ज्ञानविशेषः । चोः कुरित्यत्र षष्ठ्यर्थः उच्चारणाधिकरणत्वप्रकारतानिरूपकत्वं प्रसङ्गेऽन्वेति । स्थानपदोत्तरसतिसप्तम्या. श्चाधिकरणक्षणवृत्तित्वरूपं सामानाधिकरण्यमर्थः । अधिकरणता च विशेष्यतासंबन्धेन । वृत्तिश्च स्वोच्चारणाधिकरणत्वसम्बन्धेन । तथाच चोः कुरित्यादितः कवर्गादिविशेष्यकः चवर्गोच्चारणाधिकरणत्वप्रकारकप्रसङ्गविशेष्यकक्षणवृत्तित्वप्रकारक एव बोधः । तथापि अन चवर्गोद्देशेन कवर्गो विधीयत इत्यादिव्याख्यातृव्यवहारात् चवर्गोद्देश्यककवर्गविधेयकबोध एव पाणिनेस्तात्पर्यमिति दर्शितसूत्रजन्यबोधस्य चवर्गोद्देश्यतानिरूपितकवर्गविधेयताकत्व- वैशा मेवाश्रयणीयम्। उद्देश्यत्वविधेयत्वे हि न विशेष्यत्वप्रकारत्वरूपे, किन्तु विलक्षणे एव विषयते । त अत एव पर्वते वह्निरित्यनुमितेरपि पर्वतोद्देश्यतानिरूपितवह्निविधेयताकत्वमेवाङ्गीकृतं तान्त्रिकैः । तस्मात्पदान्तत्वघटितधर्मावच्छिन्नोद्देश्यताकशाब्दबोधविधेयत्वतात्पर्यविषयत्वं व कवर्गे निर्बाधमेव । विधेयतावच्छेदकसंबन्धश्च स्वोच्चारणाधिकरणक्षणविशेष्यकप्रसङ्ग- अ प्रकारीभूताधिकरणताकोच्चारणकर्मत्वरूपः । एवं च झल्परकत्वपदान्तत्वान्यतरवच्चवर्गो- चि च्चारणं यस्मिन्क्षणे प्रसक्तं तस्मिन्क्षणे कवर्गोच्चारणं कर्तव्यमित्युक्तं भवति । तत्सिद्धं
नञिवयुक्तपारेभाषाबलेन अपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमिति । किं चापदादिविधिशब्दस्य दर्शितार्थपरतामनङ्गीकृत्य णत्वविधावपि वार्तिकप्रवृत्तिस्वीकारे गन्धर्वगानादीनां क्षुभ्नादित्वस्य कल्पनीयतया गौरवम् । अतस्तत्परिहाराय उक्तरीत्या णत्वविधावप्रवृत्तिवर्णनमेव युक्तम्। एवं णत्वविधावुक्तवार्तिकप्रवृत्तौ प्रनिरन्तरित्या- दिसूत्रवैय्यर्थ्यम्, प्रवणादिषु अट्कुप्वाङित्यनेनैव णत्वसिद्धेः ।