Śrīkoṣa
Chapter 1

Verse 1.46

अथ अट्कुप्वाङित्यनेन प्राप्तावपि वनं पुरगेतिनियमेन संज्ञारूपे प्रवणादौ असिपत्रवनादाविव णत्वनिवृत्तौ पुनः प्रापणार्थोऽयं विधिः । एवं शरादीनामोषधि- वनस्पत्यन्यतररूपतया "विभाषौषधिवनस्पतिभ्य" इत्यनेन विकल्पे प्राप्ते नित्यार्थश्च। अतो नास्य वैय्यर्थ्यमिति चेत्- एवमपि वनं पुरगेति सूत्रे अग्रग्रहणवैय्यर्थ्यं दुष्परिहरमेव। “अग्रे वणे” अट्कुप्वाङित्यनेन णत्वोपपत्तेः । न च वननकारस्य यदि णत्वं तर्हि अग्रोत्तरस्यै- वेत्येवंविधनियमार्थमग्रग्रहणम् । तेन चित्रवनादिव्यावृत्तिरिति वाच्यम् । त्रैदोष्यापादक- नियमपरत्वस्यान्याय्यत्वात्। उक्तवार्तिकस्य णत्वविधावप्रवृत्तौ तस्य विधिपरत्वसंभवात् ।