Śrīkoṣa
Chapter 1

Verse 1.47

यद्यपि अपूर्वविध्यपेक्षया नियम एवाभ्यर्हितः पक्षप्राप्तनियमनमात्रे विधे-
र्व्यापारात्। अत एव पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्त इत्यत्र प्रागुत्तमादह्नः पक्षप्राप्तपत्नी-
संयाजान्तसंस्थानियामकत्वमेव न तूत्तमेऽह्नि अप्राप्तपत्नीसंयाजान्तत्वप्रापकत्वं इत्युक्तम् ।
तथापि पञ्च पञ्चनखा भक्ष्या इत्यादौ पातञ्जलभाष्ये नियमव्यपदेशात् परिसंख्याविधिरपि
वैय्याकरणैः नियमविधिरिति व्यवह्रियते । तथाच प्रागुक्तरीत्या वननकारस्य यदि णत्वं तर्ह्यग्रोत्तरस्यैवेत्येवंविधनियमस्य प्राप्तपरिसंख्यारूपतया स्वार्थत्यागपरार्थस्वीकारप्राप्त-
बाधरूपदोषत्रयमावश्यकमेव । तथाहि अग्रशब्दोत्तरवननकारस्य णत्वं स्यादिति स्वार्थः स
च त्यक्तव्यः, अट्कुप्वाङित्यनेनैव तस्य प्राप्तत्वात् । अप्राप्ते हि शास्त्रमर्थवदिति न्यायात् ।
अग्रशब्दानुत्तरवननककारस्य णत्वं न स्यादिति परार्थः, स च स्वीकरणीयः । अन्यथा चित्रवनादिषु अट्कुप्वाङित्यनेन प्राप्तस्य णत्वस्यानिवारणात् । अट्कुप्वाङिति सूत्रप्राप्तं च णत्वं बाधितव्यमिति । किञ्च नियमपरत्वावश्यकत्वे चित्रकाननादीनामपि व्यावृत्त्यनुरोधेन निमित्तानधिकरणपदवृत्ते र्नस्य यदि णत्वम् तर्हि अग्रोत्तरवननकारस्यैवेत्येवंविधनियम एवसमाश्रयणीयः। तद्व्यावर्तकयत्नान्तरकरणे गौरवात्। इत्थं च नारायणशब्देऽपि यौगिके णत्वं दुर्घटम्। कृत्तद्धितसमासाश्चेति सूत्रे समासग्रहणस्य यत्र संघाते पूर्वो भागः पदं उत्तरस्तु प्रत्ययो न भवति तस्य चेत्प्रातिपदिकसंज्ञा तर्हि समासस्यैवेत्येवंविधनियमपरत्वाङ्गीकारव अग्रग्रहणस्य दर्शितनियमपरत्वमपि हि युज्यत एव ।