Chapter 1
Verse 1.48
अथास्य एवंविधनियमपरत्वे समानपदग्रहणवैय्यर्थ्यम् । तद्विरहेपि गीर्नमति ,रामनामा इत्यादिषु उक्तनियमेनैव णत्वव्यावृत्तेरिति चेत् - हन्त ! नियमपरकत्वावश्यकत्वे चित्रकाननादीनां व्यावर्तनाय यत्नान्तरकरणे गौरवात् तदकरणकृतलाघवानुरोधेन
ईदृशनियमपरत्वमेव युक्तमिति वदतां समानपदाग्रहणकृतलाघवान्तरमपि उद्घाटयता
सम्यक्दूषणमुक्तमायुष्मता ।