Śrīkoṣa
Chapter 1

Verse 1.49

इदमत्र तत्त्वम्। यद्यपि समानपदाग्रहणेऽपि अग्रग्रहणस्य दर्शितनियमपरत्वेनैव सर्वनिर्वाहे तद्वैय्यर्थ्यं सर्वैरपि दुर्वारम्। तथापि समानपदग्रहणकृतकण्ठादिव्यापारगौरवादपि नियमविधिकृतमनोव्यापारगौरवमेव दुस्सहमित्यभिप्रायेण भगवता पाणिनिना समान- पदग्रहणमेव कृतमिति सर्वसमाश्रयणीयः समाधिः । तत्र यद्युत्तरपदत्वे चेत्यादिवार्तिकं णत्वविधावपि प्रत्ययलक्षणनिषेधकं भवेत् तदा उक्त नियमविधिगौरवं सोढव्यमेव स्यात् । ततश्च समानपदग्रहणवैय्यर्थ्यं प्रागुक्तरीया दुर्वारमिति उक्तवार्तिकस्य णत्वविधाव- प्रवृत्तिरेव युक्ता । तथासति हि अग्रग्रहणस्य विधिपरत्वासंभवात् न कोपि दोषः । किं च उक्तवार्तिकस्य णत्वविधौ प्रत्ययलक्षणनिषेधकत्वे पूर्वपदादिति सुत्रे अग इत्यस्य वैय्यर्थ्यम्। तद्धि ऋगयनादौ पूर्वपदादिति णत्ववारणार्थमिति भाष्यादावुक्तम्। पूर्वपदा- दित्यस्य परमते द्रुणसादिमात्त्रविषयकतया न ऋगयनादावनेन णत्वप्राप्तिः द्रुणसादी पदादिविधित्वेन प्रत्ययलक्षणप्रवृत्त्या सामानपद्यासंभवेन तत्र णत्वप्राप्त्यर्थं पूर्वपदादिति सूत्रमिति तेनाङ्गीकारात् । न च ऋगयनादावट्कुप्वाङित्यनेन णत्वप्राप्त्या तन्निषेधकत्वमेव सार्थक्यान्यथानुपपत्त्या समाश्रीयते निमित्तनिमित्तिनोर्मध्ये गकारेण व्यवधाने णत्वं नेति तदर्थ इत्यङ्गीकारादिति वाच्यम् । रागेणेत्यादौ णत्वासिद्धिप्रसंगात्। न च पूर्वपदस्थान्निमित्तात् परस्य नस्य णत्वं न स्यात् गकारव्यवधाने इत्येवाग इत्यस्यार्थ इति न दोष इति वाच्यम् । तथा सति पूर्वपदस्थान्निमित्तात्परस्य नस्य णत्वन्न स्यादित्येतावत एव सम्यक्त्वेन गकारव्यवधानांशवैय्यर्थ्यात्, नेत्युक्ते तावतैव पूर्वपदादित्येतत्संबन्धेन प्रागुक्तार्थवत् अस्याप्यर्थस्य लाभसंभवात् ।