Chapter 1
Verse 1.50
नन्वेवं सति संज्ञाभूतनारायणादावपि णत्वानुपपत्तिः । ऋगयनादाविव तत्राप्यनेन निषेधात् । यदि चानेन निषेधेऽपि पूर्वपदात् संज्ञायामित्यनेन द्रुणसादाविव संज्ञाभूतनारायणा- दावपि न दोष इत्युच्यते तदा ऋगयनेऽपि णत्वं दुर्वारम् । वस्तुतस्त्वेवं सति पूर्वपदादित्यस्य प्रतिप्रसवत्वापत्या द्रुणसादौ णत्वानुपपत्तिरपि दोषः । तथा हि यद्यपि संज्ञाभूतनारायणादौ अट्कुप्वाङित्यनेनैव णत्वं प्राप्तम् उत्तरपदत्वे चेति प्रत्ययलक्षणनिषेधेन सामानपद्यसत्त्वात् ।
तथाप्युक्तनिषेधेनापोदितं पूर्वपदात्संज्ञायामित्यनेन पुनः प्राप्यत इत्यायातम् । इत्थं च द्रुणसादिषु पदादिविधितया प्रत्ययलक्षणसत्त्वेन सामानपद्यविरहात् णत्वस्यात्यन्ताप्राप्ततया न तत्प्रापकत्वमस्य संभवति, प्रतिप्रसवत्वसंभवे अत्यन्ताप्राप्तप्रापकत्वायोगात् । अत एव तार्तीयाधिकरणे "पूषा प्रपिष्टभागः" इत्यस्य चरौ प्राप्तापोदितपेषणपुनः प्रापकतया प्रतिप्रसवत्वसंभवात् पुरोडाशे पशौ वा नापूर्वपेषणप्रापकत्वम्, चरौ हि प्रकृतितः चोदकवशात् प्राप्तं षेषणं द्वारलोपान्निवृत्तम्, तत्प्रापणे चापवादनिवृत्तिमात्रे विधेर्व्यापारात् लाघवं, पुरोडाशे च पाकात्पूर्वं पेषणस्य प्राप्तत्वान्न विधानं संभवति । तदुत्तरं च पुरोडाशशब्दवाच्याकृतिविनाशापत्त्या न तत्संभवः । एवं पशुहृदयादावपि तेषामपि आकृतिविशेषविशिष्टमांसवाचित्वात् यद्यपि अवदानोत्तरमुभयत्र पेषणविधानसंभवः । तथापि उक्तरीत्या प्रतिप्रसवत्वसंभवात् नात्यन्ताप्राप्तपेषणप्रापकत्वं विधिव्यापारगौरवादित्युक्तम् । तस्मादग इत्यनुक्तौ गुणसादौ णत्वानुपपत्तिरपि स्यात् । तदुक्तौ तु नारायणादौ निषेधाप्रसरात् पूर्वपदादित्यस्य न प्रतिप्रसवत्वसंभवः ।