Śrīkoṣa
Chapter 1

Verse 1.51

यद्यप्येवमपि ऋगयनादौ प्रतिप्रसवत्वसंभवः निषेधस्यासंज्ञायां चारितार्थ्यात् । तथापि निषेधे संज्ञायामित्यस्यापि संबन्धाङ्गीकारात् न दोषः । तथा सति ऋगयनादौ णत्वनिषेधकतयैव चारितार्थ्यस्य वक्तव्यत्वात् । तदेवम् अग इत्यस्य पूर्वपदस्थान्निमित्तात् परस्य गकारव्यवहितस्य नस्य णत्वं न स्यात् संज्ञायामित्यर्थः पर्यवसित इति न कोपि दोष इति चेत् -