Chapter 1
Verse 1.12
नचोक्तरीत्या वार्तिकार्थवर्णनं नैव युज्यते तादृशापदादिविधेरेवाप्रसिद्धेः, उत्तरपद- निष्ठपदत्वमाश्रित्य कुत्वादेः क्वाप्यप्रवृत्तेः । यत्तु - तादृशपदत्वप्रयुक्तत्वसंभावनाविषयत्वमेव विवक्षितम्। संभावना च "परमवाचा परमलिडित्यादौ यत् उत्तरपदस्य पदत्वं स्यात्तदा तत्प्रयुक्त कुत्वडत्वादिकं भवेदित्येवंविधज्ञानविशेषरूपा । साच पाणिन्यादिमुनिसमवेतैव ब्राह्या तेन नातिप्रसङ्गः। तथाच तादृशस्य कुत्वडत्वादेः प्रसिद्ध्या न दोष इति । तन्न उक्तार्थस्य दर्शितवार्तिकेनालाभात्, सतिसप्तम्याः प्रयुक्तत्वसंभावनाविषयत्वबोधकतायाः क्वाप्यदर्शनात्। अतः उत्तरस्य उत्तरपदस्य, पदत्वे – पदसंज्ञायां यत् प्रत्ययलक्षणमि- त्यन्वयेनापदादिविधौ कर्तव्ये उत्तरपदस्य पदसंज्ञासंपादकं प्रत्ययलक्षणन्नेत्येवं वार्तिकार्थो वर्णनीयः । वैयाकरणग्रन्थेष्वपि इत्थमेव तत् वर्णनम् दृश्यते । तथाच णत्वविधौ वार्तिकप्रवृत्ति
र्निर्बाधैवेति वाच्यम् ॥ ७ ॥