Śrīkoṣa
Chapter 1

Verse 1.52

एवमपि सूत्रभेदाश्रयणं समर्थपरिभाषाबाधाश्रयणं चेति दूषणद्वयं दुर्निवारम् । उत्तरपदत्वेचेति वार्तिकस्य णत्वविधावप्रवृत्तौ हि ऋगयनादौ अट्कुप्वाङित्यनेन णत्वाप्राप्त्या अगइत्यस्यनभिन्नसूत्त्रत्वमाश्रयणीयम् । अगइत्यस्यपूर्वपदादित्येतद्विशेषणतया अगकारान्तात पूर्वपदादित्यर्थाङ्गीकारात् । तत्सिद्धमपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमङ्गीकृत्य णत्वविधावप्रवृत्तिवर्णनमेव युक्तमिति । किंच अपदादिविधिशब्दस्य उक्तार्थकत्वानभ्यु- पगमेपि पदादिविधिशब्दस्य लक्षणप्रतिपदोक्तपरिभाषया पदादिशब्दोच्चारणपूर्वकपदादि-विधिपरताया आवश्यकत्वस्य वक्ष्यमाणतया द्रुणसादावपि अट्कुप्वाङित्यनेनैव णत्वसिद्ध्या पूर्वपदादित्यस्य नियमपरताया एवावश्यकतया केवलयौगिके नारायणे णत्वं न संभवत्येव ।
पूर्वपदादित्यस्य भाष्यसंमतविधिपक्षविलयप्रसंगश्च । अत्र भाष्यादिग्रन्थविरोधाः भूयांस उपलभ्यन्ते। ते च स्पष्टतया ग्रन्थगौरवभिया च ते नेह लिख्यन्ते ।