Śrīkoṣa
Chapter 1

Verse 1.53

वस्तुतस्तु निमित्तानधिकरणनिमित्तिमत्पदाघटितेत्यत्र पदशब्देन पदत्वयोग्यमेव विवक्षितम्। अन्यथा "गतिकारकोपपदानां कृद्भिस्सह समासवचनं प्राक् सुबुत्पत्तेरि" ति पाद परिभाषया गन्धर्वगानादिषु सुबुत्पत्तेः प्राक् समासेन पदत्वघटितसामानपद्यसत्त्वेन अपर णत्वप्रसङ्गात्, क्षुभ्नादित्वाङ्गीकारे गौरवात् तदसंभवस्य वक्ष्यमाणत्वाच्च । पदत्वयोग्यत्वं याद सुप्तिविध्युद्देश्यतावच्छेदकधर्मवत्त्वम्। स च धर्मः प्रातिपदिकत्वं धातुत्वञ्च । वस्त विभक्तीतरानपेक्षया लोके अर्थबोधकत्वेन यद्दृष्टं तत्त्वं पदत्वयोग्यत्वमिति तु न, इन्द्रनिभादौ णत्वप्रसङ्गात् निभादेरुत्तरपदत्वे एव साधुतया तथात्वासंभवात् ।