Chapter 1
Verse 1.54
यत्तु नाराणामयनमिति तत्पुरुषसमासे णत्वमुपपद्यते, सुबुत्पत्तेः प्रागेव समासेन पदत्वघटितसामानपद्येोपपत्तेः, गन्धर्वगानादिषु सुबुत्पत्त्यनन्तरमेव समासान्न दोषः । उक्तपरिभाषायाः अनित्यत्वादिति । तन्न उक्तपरिभाषाया नित्यत्वमेव भाष्यकृदभिप्रेतमित्यस्य क स्थापितत्वात्, भाष्यकृन्मत एव समानपदशब्दस्य निमित्तानधिकरणेत्याद्यखण्डपदपरत्वात् ।