Śrīkoṣa
Chapter 1

Verse 1.55

यद्यपि वार्तिककृन्मते उक्तपरिभाषाया अनित्यत्वमेवेत्युक्तम् । तथापि न दोषः,समानपदे इत्यस्य यथाश्रुतार्थकतामङ्गीकृत्य पूर्वपदादित्यस्य नियमपरतायास्तेनाङ्गीकारात् । नियमश्च पूर्वपदस्थान्निमित्तात् परस्य उत्तरपदस्थस्य नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवंरूपः, पर्वपदशब्देन उत्तरपदस्याक्षेपात् । तथाच सुबुत्पत्तेः प्राक्समासेऽपि गन्धर्वगानादाविव तत्पुरुषनारायणशब्देऽपि णत्वं न संभवत्येव । अयनशब्दस्य समासचरमावयवरूपोत्तरपदत्वा-नपायात्। न चैवंरीत्या नियमाभ्युपगमे होतृपोतृनेष्टोद्गातार इत्यत्र णत्वप्रसङ्गः । नकारस्य उत्तरपदस्थत्वाभावेन नियमेनाव्यावर्तनात् । अतो निमित्तानधिकरणपदवृत्तेर्नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवंविधनियमपरत्वमेव समाश्रयणीयमिति तत्पुरुषनारायणशब्दे णत्वोपपत्तिः, सुबुत्पत्तेः प्राक्समासेनायनशब्दस्य पदत्वविरहेण नियमेनाव्यावर्तनात्, गन्धर्वगानादिषु सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारात् न दोष इति वाच्यम् । उक्तरीत्या नियमाङ्गीकारे अग्रग्रामाभ्यामिति वार्तिकवैय्यर्थ्यप्रसंगात् । अग्रणीः ग्रामणीरित्यत्त्र सुबुत्पत्तेः प्रागेव समासेन दर्शितनियमेनाव्यावृत्त्या अट्कुप्वाङित्यनेनैव णत्वसिद्धेः । अतः निमित्तानधिकरणपदत्वयोग्यवृत्ते र्नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवं विधनियम- परत्वमेवाश्रयणीयम्। तथा चाग्रणीः ग्रामणीरित्यत्र दर्शितनियमेन णत्वव्यावृत्त्या अग्रग्रामाभ्यामिति वार्तिकचारितार्थ्यम् । तथा च तत्पुरुषनारायणशब्देऽपि दर्शितनियमेन व्यावर्तनात् णत्वं न संभवत्येव । किंच पदत्वघटितनियमाभ्युपगमेऽपि अबाधितयोगार्थे वस्त्वन्तरेऽपि नारायणशब्दस्य णत्वप्रसंगवारणायात्रापि सुबुत्पत्त्यनन्तरमेव समासस्याङ्गीक- रणीयतया कथं णत्वोपपत्तिः । अपिच तत्पुरुषसमासे परवल्लिङ्गत्वप्रसंगेन पुल्लिङ्गतानुपपत्तिः भगवति तु निर्वचनमहिम्ना परवल्लिंगत्वबाध इति । तसिद्धम् उत्तरपदत्वे चेति वार्तिकस्य णत्वविधौ प्रवृत्तावपि केवलयौगिके नारायणशब्दे णत्वं न संभवतीति ।