Chapter 1
Verse 1.56
यद्यप्येतेन उत्तरप्रपञ्चस्सर्वोऽपि निर्मूलितः । तथापि दूषणान्तरज्ञापनाय विशिष्य कतिपयविषया दूष्यन्ते । यदपि गन्धर्वगानादीनां क्षुभ्नादित्वाङ्गीकारेण वारणाभिधानम् तदपि विपरीतफलम्। तथा हि- तेषां क्षुभ्नादिगणे न प्रातिस्विकरूपेण पाठस्संभवति आनन्त्यात्
लक्षणैकचक्षुष्काणां दुर्ग्रहत्वाच्च । किन्तु सर्वादिगणे डतरडतमेतिवत् मयूरव्यंसकादिगणे आख्यातमाख्यातेनेतिवच्चानुगतरूपेणैव । तच्चासमानपदस्थनिमित्तनिमित्तिकासंज्ञात्वादि- रूपमेव। तथाच तस्य केवलयौगिकनारायणशब्दसाधारण्यात् कथं तत्र णत्वमिति । द