Chapter 1
Verse 1.57
यदपि अपदादिविधिशब्दस्य पदान्तविधिपरत्वाभिधानं तदप्ययुक्तम् तथासति ॥ परमगिरावित्यादौ "र्वोरुपधाया" इति दीर्घस्य परमबुधावित्यादौएकाचो भश इति भष्भावस्य च प्रसङ्गात् तयोः पदान्तत्वविरहेण प्रत्ययलक्षणानिषेधात् अस्मदुक्तरीत्या पदान्तत्व- प्रयुक्तविधिपरत्वे तु न दोषः तयोः पदान्तत्वप्रयुक्तत्वाक्षतेः । यदपि वार्तिककारस्य पदान्तविध्यभिप्रायकत्वे पदान्तविधावित्यभिधानापादनं तदप्यनुपपन्नम् । पदान्तविध्य. भिप्रायकत्वेऽपि तस्य पदान्तविधिशब्देनाभिधाने दोषसत्त्वेन तथानभिधानोपपत्तेः तथाहि- पदान्तविधावित्युक्तौ लक्षणप्रतिपदोक्तपरिभाषया पदान्त शब्दोच्चारण पूर्वकपदान्तविधेरेव ग्रहणं स्यात्, परिभाषासंस्कृतवाक्यार्थस्यैव समाश्रयणीयत्वात् । यथा “ विभाषा दिक्समासे " इति विहिता सर्वनामसंज्ञा दिक्च्छब्दमुच्चार्य विहिते दिङ्नामान्तराळ इति समास एवेति या उत्तरा सा पूर्वा यस्या मुग्धायाः तस्यै उत्तरपूर्वायै इत्येवेत्यङ्गीक्रियते तद्वत् । तथा च "नलोपः प्रातिपदिकान्तस्ये"ति विहितस्य नलोपस्य पदान्तशब्दोच्चारणपूर्वकपदान्तविधित्वविरहेण प्रत्ययलक्षणानिषेधे परमदण्डिनावित्यादौ नलोपापत्तिः । अपदादिविधिशब्देन पदान्तविध्यभिधाने तु नायं दोषः दर्शितनलोपस्य वस्तुतः पदान्तविधित्वात् ।
न च पदान्तशब्दोच्चारणपूर्वकविधित्वम् पदशब्दसमभिव्याहृतत्वेनान्तपदानु- सन्धानाधीनशाब्दबोधविधेयत्वतात्पर्यविषयत्वरूपमवश्यमास्थेयम् । अन्यथा चोः कुरित्यादेरप्यसङ्ग्रहप्रसङ्गात्, तत्र पदान्तशब्दोच्चारणविरहात् । इत्थं च नलोपस्यापि तथात्वसंभवान्न दोषः । नलोपः प्रातिपदिकान्तस्येत्यत्र प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः इत्यर्थवर्णनेन शाब्दबोधस्य पदशब्दसमभिव्याहृतत्वेनान्तपदानुसन्धानाधीनत्वाक्षतेः इति वाच्यम् । इहान्तपदस्य केवलादृष्टार्थतया शाब्दबोधोपधायकत्वविरहात् ।