Chapter 1
Verse 1.58
तथाहि-इह नेति प्रातिपदिकेति च लुप्तषष्ठीकमिति निर्विवादम्। तत्र नेत्यस्यानुवर्तमानपदविशेषणतया येन विधिशास्त्रेण नान्तस्य प्रातिपदिकसंज्ञकस्य पदस्य लोप इत्यर्थे अलोऽन्त्यपरिभाषया समीहितसिद्धिरिति । अन्तग्रहण पारायणादावदृष्टार्थमेवेति । किञ्च अन्तपदस्य शाब्दबोधौपयिकत्वेऽपि न पदशब्दसमभिव्याहृतत्वेन तदनुसन्धान शाब्दबोधोपधायकम् स्वतस्सिद्धस्य प्रातिपदिकसमभिव्याहारस्य परित्यागे कारणविरहात् । अनुवर्तमानस्य पदस्य प्रातिपदिकविशेषणताया युक्तत्वात् । न च पदाङ्गाधिकारे तयोर्विशेष्यत्वं इतरस्य विशेषणत्वमिति नियमात् नेदं युज्यत इति वाच्यम् । येन विधिशास्त्रप्रवृत्त्यर्हस्यैव इतरस्य विशेषणत्वनियमात् । अन्यत्र तथानियमे प्रयोजनविरहात् । इह प्रातिपदिके येन विधिशास्त्राप्रवृत्तेः सर्वसम्मततया तस्य विशेष्यत्वसंभवात् । तस्माद्वार्तिककारस्य पदान्तविध्यभिप्रायकत्वेऽपि अपदादिविधावित्येवाभिधातव्यमिति सिद्धम् ।