Śrīkoṣa
Chapter 1

Verse 1.59

यदपि एवकारस्य पदादिविधिमात्रव्यावर्तकत्वेग्रन्थकाराभिप्रायवर्णनम्। तदप्यसंगतम् । तथाहि माषकुम्भवापेनेत्यत्र कुम्भशब्दस्य उक्तवार्तिकेन प्रत्ययलक्षणनिषेधात् पदव्यवाये- ऽपीति निषेधानुपपत्तिरित्याशङ्क्य पदान्तविधावेवानेन प्रत्ययलक्षणनिषेधात् नानुप- पत्तिरित्युक्तं कैश्चिद्वन्थकारैः । तत्न एवकारस्य पदादिविधिमात्रव्यावर्तकत्वे दर्शितशङ्काया एवापरिहारात् असाङ्गत्यं स्पष्टमेवेति । यदपि चक्षुषैव रूपं गृह्यत इत्यत्र त्वङ्गात्रव्यवच्छेदा- भिधानं तदप्ययुक्तम् । तत्र एवकारेण चक्षुरितरसकलेन्द्रियव्यवच्छेदात् चक्षुरितरेन्द्रिय- निरूपितज्ञानत्वव्याप्यधर्मावच्छिन्नजन्यता श्रयग्रहनिरूपितलौकिकविषयत्वाभावस्यैव रूपे प्रतीतेः चाक्षुषस्य ज्ञानत्वेन मनोजन्यत्वेऽपि रूपस्य मानसविषयत्वेऽपि च क्षतिविरहात्। कथमन्यथा चक्षुषैव रूपं गृह्यत इति वाक्याधीननिश्चयदशायां रसनेन रूपं गृह्यते नवेति संशयाद्यनुदयनियम उपपद्यते ।