Śrīkoṣa
Chapter 1

Verse 1.60

यदपि अपदादिविधिशब्दस्य पदादिशब्दोच्चारणपूर्वकपदादिविधिभिन्नार्थकत्वासंभवप्रदर्शनं, तत्त्रापि व्याकरणानध्ययनमेवापराद्ध्यति । लक्षणप्रतिपदोक्तपरिभाषया तादृशार्थस्यैवावश्यकत्वात् । कथमन्यथा यथाश्रुते परमबुधावित्यादौ भष्भाववारणम्। तत्र हि भष्भावस्य पदादिविधितया दर्शितार्थकत्वे तु तस्य प्रत्ययलक्षणनिषेधानुपपत्तिः ।