Śrīkoṣa
Chapter 1

Verse 1.61

यदपि प्रश्नोपनिषदि श्रूयमाणयोः केवलयौगिकयोः समुद्रायणपुरुषायणशब्दयोः णत्वानुपपत्तिरिति । तदपि न-पदादि शब्दोच्चारण पूर्वकत्वविरहान्नानुपपत्तिः। छन्दोमात्रगोचरयोः तयोः बाहुलकेनैवोपपत्तेः। लोकसाधारणसूत्रेण तदुपपादने लोकेऽपि तत्साधुताप्रसङ्गात्। लौकिकप्रयोगे तादृशस्य क्वाप्यनुपलम्भेन इष्टापत्त्यसंभवात्। नचैवं सति कारणवाक्यघटकनारायणशब्दस्य केवलयोगेन शिवपरत्वेऽपि बाहुलकत्वेन णत्वोपपत्त्या
अस्मदिष्टसिद्धिरिति वाच्यम्। मुख्यार्थबोधसंभवे लक्षणाया इव तत्तदसाधारणशास्त्रेण उपपत्तिसंभवे बाहुलकत्वस्यापि हेयतायाः सर्वसंप्रतिपन्नत्वात्। अत एवाहीनो वा प्रकरणात् गौण इति तार्तीयाधिकरणे तिस्र एव साह्रस्पयोसदो द्वादशाहीनस्येत्यत्र अहीनशब्दस्य मध्योदात्तस्वरेण तत्पुरुषत्वाभावनिर्णयाभिधानं सङ्गच्छते । तत्र हि अस्य तत्पुरुषत्वे “तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः” इति सूत्रेण प्रकृत्या पूर्वपदमित्यनुवृत्तिसहितेन अव्ययरूपस्यनञः पूर्वपदस्य उदात्तरूपप्रकृतिस्वरापत्त्या आद्युदात्तत्वं स्यात्, मध्योदात्तश्चायं पट े। अतः “अह्नः खः क्रतावि”ति विहितखप्रत्ययान्त एवायम्। तथासति “आयन" इत्यादिना ईनादेशे आयन्नादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति तस्योपदेशिवद्भावे च सति आद्युदात्तश्चेति प्रत्ययादेरीकारस्य उदात्तत्वे मध्योदात्तत्वो- पपत्तेरित्युक्तम्। भवद्रीत्या तु तत्पुरुषत्वेऽपि बाहुलकत्वेन स्वरोपपत्त्या इदमयुक्तमेव स्यात् । एवं स्थूलपृषतीत्यादिषु स्वरविशेषेण समासविशेषनिर्णयो दत्तजलाञ्जलिस्स्यात् ।