Śrīkoṣa
Chapter 1

Verse 1.13

अपदादिविधिशब्दस्य पदान्तविधिपरतया णत्वविधौ वार्तिकप्रवृत्त्यसंभवात् । तथाहि - अपदादिविधावित्यत्र नञः न भिन्नमानमर्थः अपितु भिन्नसदृशं, नञिवयुक्तमन्यसदृशा- धिकरणे तथाह्यर्थगतिरिति न्यायात् । सादृश्यञ्च स्वघटितपदघटकवर्णनिरूपितपूर्वकत्व-
तादृशवर्णनिरूपितोत्तरत्वोभयवद्भिन्नोद्देश्यकविधित्वेन । तथाच उक्तरूपेण पदादिविधिसदृशः
पदान्तविधिरेव इह अपदादिविधिशब्दार्थः । यत्तु " अकर्तरिच कारके संज्ञायां" इत्यत्र कारकग्रहणेनोक्तपरिभाषाया अनित्यत्वज्ञापनात् नेह तत्प्रवृत्तिः अङ्गीक्रियते इति । तन्न- इह तदप्रवृत्तौ गमकादर्शनात् परिभाषाणां लक्षणसंस्कारार्थमेव कॢप्ततया गमकम-
न्तरेणाप्रवृत्त्यङ्गीकारायोगात् ॥ ८ ॥