Chapter 1
Verse 1.62
किं बहुना कारणवाक्यघटकनारायणशब्दस्य शिवपरत्वसिद्धावेव बाहुलकेन तस्य शिवे साधुत्वसिद्धिः । शिवे साधुत्वसिद्धावेव शिवपरत्वसिद्धिरित्यन्योन्याश्रयणम्। तथाहि-तत्तदसाधारणशास्त्रेणानिर्वाह एव बाहुलकप्रवृत्तिरित्यविवादम्। ततश्च प्रकृते पूर्वपदादिति शास्त्रेण अनिर्वाहनिर्णये सत्येव बाहुलकेन साधुत्वनिर्णयः, पूर्वपदादिति सूत्रेणानिर्वाहनिर्णयश्च शिवपरत्वनिर्णयाधीनः । अतः बाहुलकेन शिवे साधुत्वनिर्णयः
पूर्वपदादिति शास्त्राप्रवृत्तिनिर्णयद्वारा शिवपरत्वनिर्णयाधीन इति सिद्धम् । शिवपरत्वनिर्णयश्च शिवे साधुत्वनिर्णयाधीनः, शिवे साधुत्वविरहे तत्परत्वायोगात्। समुद्रायणादौ E रूढ्यर्थाप्रसिद्ध्या पूर्वपदादित्यनेनानिर्वाहनिर्णये बाहुलकप्रवृत्तिनिर्णय इति भेदः ।