Śrīkoṣa
Chapter 1

Verse 1.63

यदपि व्युत्पत्त्यन्तरप्रदर्शनं, तदपि प्रकृतानुपयुक्तम् । कारणवाक्यघटकनारायणशब्दे । तदसंभवस्य प्रागुक्तत्वात् । तदेवं कारणवाक्यघटकनारायणशब्दस्य शिवपरत्वासंभवात् प्रागुक्तरीत्या भगवत्परत्वसिद्ध्या भगवत एव जगत्कारणत्वसिद्धेः सर्वाधिकत्वसिद्धिः । सर्व- मिदमभिप्रेत्यानुगृहीतमाचार्यचरणैः-”निस्साधारण्यनारायणपदविषये निश्चयं यान्त्यबाधे सद्ब्रह्माद्यास्समानप्रकरणपठिताश्शङ्कितान्यार्थशब्दा” इति । इत्थं च शिवोत्कर्षपरपुराणादीनां शारीरकस्मृत्यधिकरणनिश्चली (यी) कृतविरोधाधिकरणन्यायेन "अग्नेः शिवस्यमाहात्म्यं तामसेषु प्रकीर्तितम्" इति मात्स्यपुराणवचनेन चाप्रामाण्यमेवेति सर्वं समञ्जसम् ॥