Chapter 1
Verse 1.14
नच परिभाषेन्दुशेखरव्याख्यातृभिः संज्ञाशास्त्रातिरिक्तत्वे सति लक्ष्यसंस्कारकसूत्रशेषत्वं
परिभाषात्वं इत्यङ्गीकृत्य अतिदेशस्यापि परिभाषात्वस्वीकरात् प्रत्ययलक्षणशास्त्रस्य परिभाषारूपतया तदपवादैकवाक्यस्योक्तवार्तिकस्यापि परिभाषात्वमेव । ततश्च नञिव युक्तपरिभाषाया न तत्र प्रवृत्तिसंभवः, गुणानाञ्च परार्थत्वादिति न्यायेन परिभाषयोः परस्परं शेषशेषिभावासंभवात्। उभयोरपि लक्ष्यसंस्कारकसूत्रशेषत्वाविशेषात् । यथा आधान- पवमानेष्ट्योः न परस्परशेषशेषिभावसंभवः तद्वत् । तत्र हि अग्नीनादधीतेति वचनेनाधानस्येव तत्प्रकरणस्थेन यदाहवनीये जुहोतीति वाक्येन होमेनाहवनीयं भावयेदित्यर्थकेन पवमानेष्टेरपि
अग्न्यङ्गत्वमेवेति स्पष्टम् शाबरभाष्य इति वाच्यम् ॥९॥