Śrīkoṣa
Chapter 1

Verse 1.15

प्रकृते दर्शितन्यायानवतारात् एकं प्रत्यङ्गत्वेनावगतयोः तत एव प्रयोजनाकांक्षा- शान्तेर्विनिगमनाविरहाच्च न परस्पराङ्गाङ्गिभाव इति हि दर्शितन्यायशरीरम् । ततश्च यत्न प्रधानाङ्गताग्राहकमेव प्रमाणं प्रधानाङ्गतया सहैवाङ्गाङ्गत्वमपि ग्राहयति न तत्रायं न्यायः प्रवर्तते। अङ्गाङ्गताग्रहणात् प्राक् प्रधानाङ्गत्वस्याप्यग्रहणेन नैराकांक्ष्यविरहात् तादृशप्रमाणस्यैव विनिगमकत्वाच्च । अतएव आहवनीये जुहोतीत्यनारभ्याधीतवाक्येन प्रधानाप्रधानसकलहोमाङ्गतया आहवनीयविधानमित्युपपद्यते । अत एव च कर्तृकालादेः प्रधानाप्रधानसकलकर्माङ्गत्वमिति सिद्धान्तितमेकादशे । तथाच प्रकृते नञिवयुक्तपरिभाषायाः सामर्थ्यरूपात् लिङ्गात् लक्ष्यसंस्कारकसूत्रशेषतया सहैव परिभाषाशेषत्वस्यापि ग्रहणात् न तत्र गुणानाञ्चेति न्यायप्रवृत्तिः । एवं प्रधानाप्रधानसर्वशेषत्वग्राहकलिंगशालिपरिभाषान्तराणां संज्ञाशास्त्राणांच दर्शितन्यायाविषयत्वमेव । अत एवाङ्गसंज्ञासूत्रे तस्मिन् इति परिभाषाप्रवृत्तिरुपपद्यते, एतदेव अभिप्रेत्य गुणः कृतात्मसंस्कार इत्याद्युक्तं वैयाकरणैः ॥ १० ॥