Śrīkoṣa
Chapter 1

Verse 1.16

नच अपदादिविधिशब्दस्य पदान्तविधिपरत्वं यद्यभिप्रेयात् तर्हि पदान्तविधावित्ये- वाभिदध्यात्, अत इत्थमेवाभिदधानस्य पदमध्यविधिसंग्रहेप्याशयोस्तीत्युन्नीयते । ततश्चा- नेनैव गमकेन इह नञिवयुक्तन्यायो न प्रवर्तते इति णत्वविधावपि वार्तिकप्रवृत्तिरव्याहतैवेति
वाच्यम् ॥ ११॥