Śrīkoṣa
Chapter 1

Verse 1.17

यतः पदान्तविधावित्युक्तौ लक्षणप्रतिपदोक्तपरिभाषया पदान्तशब्दोच्चारण- पूर्वकपदान्तविधेरेव ग्रहणं स्यात् । ततश्च परमदण्डिनेत्यादौ नलोपापत्तिः “नलोपः प्रातिपदिकान्तस्ये"ति विहितस्य तस्य पदान्तशब्दोच्चारणपूर्वकत्वविरहेण तत्र प्रत्यय- लक्षणानिषेधात् । अपदादिविधावित्युक्तौ वस्तुगत्या यः पदान्तविधिः तस्यैव ग्रहणेन नलोपस्यापि तादृशत्वानपायेन तत्त्रापि प्रत्ययलक्षणनिषेधात् नानुपपत्तिः । तथाच अपदादिविधावित्यभिधानस्य उक्ताशयोन्नायकत्वासंभवेन इह नञिवयुक्तन्यायाप्रवृत्तिगमकं दुर्लभमेवेति ॥ १२ ॥