Śrīkoṣa
Chapter 1

Verse 1.18

नच पदान्तशब्दोच्चारणपूर्वकत्वलाभेऽपि न दोषः, तथाहि पदान्तशब्दोच्चारण- पूर्वकत्वं हि पदशब्दसमभिव्याहृतत्वेन अन्तपदानुसंधानाधीनशाब्दबोधविधेयत्वतात्पर्य- विषयत्वरूपमवश्यं निर्वाच्यम् । अन्यथा "चोः कुरित्यादावपि सूत्रे पदान्तशब्दानुच्चारणेन कुत्वादेरप्यसंग्रहप्रसंगात्। इत्थंच नलोपः प्रातिपदिकान्तस्येत्यस्य प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य नस्य लोप इत्यर्थात् पदशब्दसमभिव्याहृतत्वेन अन्तपदानुसन्धानाधीनत्वं शाब्दबोधे निर्बाधमिति न परमदण्डिनेत्यादौ नलोपप्रसंगः। तत्र उक्तवार्तिकप्रवृत्त्या दण्डिन्नित्यस्य पदत्वविरहात् इति वाच्यम् ॥ १३ ॥