Śrīkoṣa
Chapter 1

Verse 1.19

पदान्तशब्दोच्चारणपूर्वकत्वस्य उक्तरूपत्वेऽपि नलोपस्य तथात्वासंभवेन वार्तिका - प्रवृत्त्या दर्शितदोषानिस्तारात् । तथाहि अत्र नेति, प्रातिपदिकेति च लुप्तषष्ठीकम् इति निर्वि-
वादम्। ततश्च नेत्यस्य प्रातिपदिकविशेषणत्वमङ्गीकृत्य नान्तस्य प्रातिपदिकसंज्ञकस्य पदस्य लोप इत्यर्थाङ्गीकारे अलोन्त्यपरिभाषया समीहितसिद्ध्या अन्तग्रहणं पारायणादावदृष्टार्थमेव
नतु तस्य शाब्दबोधौपयिकत्वे भगवतः पाणिनेः तात्पर्यमिति । तथाच न प्रागुक्ताशयोन्नयनं युज्यत इति अपदादिविधिशब्दस्य पदान्तविधिपरत्वम् आवश्यकमेव ॥१४॥