Śrīkoṣa
Chapter 1

Verse 1.2

इह खलु कारणवाक्यगतानां समादिसामान्यशब्दानां छागपशुन्यायेन समान-प्रकरणपठितनारायणशब्दसमर्पिते भगवति विशेषे पर्यवसानम् । ततश्च कारणवाक्य-गतशिवादिशब्दानामपि यथायथं रूढ्या योगेन वा भगवत्परत्वमेव कारणद्वित्वासंभवात् । तथाच सर्वश्रुत्यैककण्ठ्येन भगवत एव जगत्कारणत्वसिद्ध्या सर्वाधिकत्वसिद्धिरिति औपनिषदानां निर्णयः, तत्र तादृशसद्ब्रह्मात्मादिसामान्यशब्दानां उक्तन्यायेनैव तादृशशिव- शब्दसमर्पिते शिव एव विशेषे पर्यवसानमस्तु । तादृशनारायणशब्दस्यापि शिवपरत्वसंभवेन कारणद्वित्वाप्रसक्तेः इत्याशङ्कानिराकरणाय कारणवाक्यगतनारायणशब्दस्य शिवपरत्वा- संभवस्तावत् उपपादनीयः । तत्प्रकारश्चेत्थं कारणवाक्यघटकनारायणशब्दस्य शिवपरत्वं किं रूढ्या ? आहोस्वित् केवलयोगेन ? अथवा लक्षणया ? । नाद्यः, भगवतोऽन्यत्र रूढ्यभावस्य स्थापयिष्यमाणत्वात् । नान्त्यः, मुख्यार्थबाधविरहेण निषादस्थपत्यधिकरणन्यायेन लक्षणायाः अन्याय्यत्वात्। औपनिषदमते शिवादिशब्दानां भगवत्परत्वं तु न लक्षणया, किन्तु शुभत्वसामान्यरूढ्यादिनैवेति विशेषः॥