Śrīkoṣa
Chapter 1

Verse 1.20

नच अन्तग्रहणस्य शाब्दबोधौपयिकत्वतात्पर्यस्यापि संभवात् तस्य केवलादृष्टार्थत्वं न युज्यते। तथाहि “एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवति ” इति श्रुत्या शास्त्राधीनप्रक्रियाज्ञानपूर्वकसुशब्दप्रयोगस्यैव धर्मोत्पत्तिहेतुत्वं बोध्यत इत्य- विवादम् । यस्य सूत्रस्य सूत्नावयवस्य वा प्रक्रियांशे प्रयोजनविशेषानुपलब्धिः तस्याप्य- भ्युदयशिरस्कप्रक्रियाज्ञानसंपादकतया संभवत्येव चारितार्थ्यम्, तादृशसूत्रेण ज्ञात्वैव सुशब्दप्रयोगे धर्मोत्पत्तिरिति व्यवस्थाङ्गीकारात्। यथा सर्वेभ्यो दर्शपूर्णमासावित्यनेन दर्शपूर्णमासयोः स्वर्गफलकत्वस्यापि सिङ्ख्या दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यवैयर्थ्ये प्राप्ते सार्वकाम्यवाक्यस्य स्वर्गातिरिक्तफलसमर्पकत्वं, स्वर्गकामवाक्यस्य च स्वर्गसमर्पकत्वम्। सार्वकाम्यवाक्यादेव कृत्स्नफलसमर्पणसंभवेऽपि इत्थं ज्ञात्वानुष्ठान एव फलसिद्धिरिति अङ्गीकारात् न स्वर्गकामवाक्यवैयर्थ्यमिति अभ्युदयशिरस्कप्राप्तिफलकत्वं तद्वाक्याम्नानबलात् अङ्गीक्रियते । यथाच सप्तदशसामिधेनीरनुब्रूयात् इत्यनारभ्याधीतस्य प्राकरणिकपाञ्चदश्यावरोधेन प्रकृतौ निवेशमलभमानस्य अतिदेशप्राप्तपाञ्चदश्या- बाधाय मित्रविन्दादिप्रकरणस्थेन सप्तदशसामिधेनीरनुब्रूयात् इति वाक्यान्तरेणावगत- सामिधेनीसंबन्धासु तास्वेव विकृतिषु निविष्टस्य प्राकरणिकवाक्यमादाय वैयर्थ्ये प्राप्ते प्राकरणिकवाक्यस्य साप्तदश्ये क्रतुसंबन्धप्रापकत्वं, अनारभ्याधीतस्य तु तत्र सामिधेनीसंबन्धप्रापकत्वम् । प्राकरणिकवाक्येनैव उभयप्राप्तिसंभवेऽपि इत्थं ज्ञात्वानुष्ठान एव फलसिद्धिरित्यङ्गीकारात् न अनारभ्याधीतवैयर्थ्यमित्युपपाद्यते तद्वत्। तथाच अन्तपदघटितसूत्रैणैव प्रक्रियाज्ञानस्य संपादनीयतया तस्य शाब्दबोधौपयिकत्वतात्पर्यमस्त्येवेति प्रागुक्तरीत्या अपदादिविधिशब्दस्य पदान्तविधिपरत्वन्न संभवत्येवेति वाच्यम् ॥ १५ ॥