Chapter 1
Verse 1.21
उक्तरीत्या अन्तपदस्य शाब्दबोधौपयिकत्वसंभवेऽपि पदशब्दसमभिव्याहृतत्वेन तदनु- संधानस्य तथात्वविरहेण तद्दोषतादवस्थ्यात् । तथाहि - प्रातिपदिकेत्यस्य अन्तपदार्थेनैवान्वयो
युक्तः सान्निध्यात्। प्रातिपदिकेत्यस्य पदविशेषणत्वं पदस्येत्यस्य अन्तपदार्थविशेषणत्वं इत्यस्य अतिक्लिष्टत्वात् । अत अनुवर्तमानपदशब्दार्थस्य प्रातिपदिकविशेषणत्वं अङ्गीकृत्य पदाभिन्नप्रातिपदिकान्तस्य तस्य लोप इत्येव बोधो वर्णनीयः, तथाच पदशब्दसमभिव्याहृत- त्वेनान्तपदानुसंधानस्य शाब्दबोधौपयिकत्वविरहात् प्रागुक्तक्रमेण अपदादिविधिशब्दस्य पदान्तविधिपरत्वावश्यकतया णत्वविधौ वार्तिकाप्रवृत्तिरिति ॥ १६॥