Chapter 1
Verse 1.22
नच पदाधिकारे अङ्गाधिकारे च सूत्रोपात्तस्य विशेषणत्वं पदाङ्गयोर्विशेष्यत्वं इति नियमः, तेन ससजुषोरुः इत्यादिषु सजुष्शब्दान्तस्य पदस्य रुरित्यर्थात् परमसजूरित्यादावपि
तत्वसिद्धिः । सजूरित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्वसत्त्वात् न दोषः । एतदभिप्रायेणैव
पदाङ्गाधिकारे तस्य तदन्तस्य चेति पठ्यते । इत्थंच “ नलोपः प्रातिपदिकान्तस्ये” त्यत्रापि
प्रातिपदिकस्य विशेषणत्वं पदस्य विशेष्यत्वञ्च आवश्यकम् इति क्लिष्टान्वयोऽपि सोढव्य
एव। तथाच प्रातिपदिकसंज्ञकम् यत्पदं तदन्तस्य नस्य लोपः इत्यर्थात् शाब्दबोधस्य पदशब्दसमभिव्याहृतत्वेन अन्तपदानुसंधानाधीनत्वसत्त्वेन उक्तानुपपत्तिविरहात् पदान्त- विधावित्यभिधानसंभवेन प्रागुक्ताशयवर्णनोपपत्त्या अपदादिविधिशब्दस्य पदान्तविधिपरत्वं न संभवत्येवेति वाच्यम्॥ १७॥