Chapter 1
Verse 1.23
यतः येन विधिरिति शास्त्रप्रवृत्त्यर्हस्यैव सूत्रोपात्तस्य विशेषणत्वम् इति नियमः, ततश्च प्रकृते प्रातिपदिकेन तदन्तविधौ प्रयोजनविरहेण तत्र येन विधिरिति शास्त्राप्रवृत्त्या तस्य पूर्वोक्तरीत्या विशेष्यत्वं पदस्य विशेषणत्वमित्येव युक्तम् अन्यथा क्लिष्टान्वयप्रसङ्गात् ।
तथाच प्रागुक्तप्रक्रियया अपदादिविधिशब्दस्य पदान्तविधिपरत्वं आवश्यकमिति ॥ १८ ॥