Śrīkoṣa
Chapter 1

Verse 1.24

नचैवं सति परमदण्डिनां इत्यत्न ङमुट्प्रसंगः, अत्र ङमुटः पदान्तविधित्वविरहेण प्रत्ययलक्षणसत्त्वात् अपदादिविधिशब्दस्य पदादिविधिभिन्नसर्वसंग्राहकत्वे तु नायं दोषः ङमुटोऽपि तथात्वसत्त्वेन प्रत्ययलक्षणनिषेधादिति वाच्यं ॥ १९॥
पदे इति मण्डूकप्लुतिमाश्रित्य अजादेः पदस्य ङमुडिति भाष्ये व्याख्यातत्वे- नादोषात्। नञिवयुक्तपरिभाषाबाधस्य अन्याय्यतया अपदादिविधिशब्दस्य पदान्तविधि - परत्वावश्यकत्वात् ॥ २० ॥